नवग्रहस्तोत्र in Hindi/Sanskrit रवि:जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् ।तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ १॥चंद्र:दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् ।नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥ २॥ मंगळ:धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् ।कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥ ३॥ बुध:प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् ।सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ ४॥ गुरु:देवानांच ऋषिणांच गुरुंकांचन सन्निभं ।बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं ॥ ५॥ शुक्र:हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् ।सर्वशास्त्रप्रवक्तारं भार्गवं …
